jamsamwala
Tuesday, 18 October 2022
भगवान पुजा
जय जय श्री सत्यनारायण भगवान् की जय हो
मैथिल सम्प्रदायक ‘श्री सत्यनारायण पूजा पद्धति’
(मैथिली टीका)
संपादकः पं. श्री गोपीकान्त झा, रहिका, मधुबनी, मिथिला
(उर्वशी प्रकाशन, १३/एमआइजी कालोनी, हनुमाननगर, कंकड़बाग, पटना-२० द्वारा प्रकाशित, मूल्य १५ टका मे उपलब्ध पोथी)
पूजाक सामग्रीः
तेकुशा (कुश सँ बनल), तिल, जल, यव (जौ), अक्षत, श्रीखण्ड चानन, रक्त चानन, चन्द्रौटा, अर्घा, पंचपात, आचमनी, घंटी, सराय, पूड़ा, सिन्दूर, फूलक माला, तुलसी माला, बिल्वपत्र, दुभि, धूप, दीप, पान, सुपारी, नैवेद्य, पाकल केरा, अन्यान्य फल तथा पकवानादि, पंचामृत*, यज्ञोपवित, पीत वस्त्र, अपुंग नैवेद्य**, चौरठ, दिव्यान्न*** (घोरल प्रसाद), चूड़ा, दही, चीनी, कर्पूर, घी, दक्षिणा द्रव्य।
*पंचामृत – गायक दूध, दही, घृत, मधु तथा शक्कर मिश्रित पदार्थ ।
**अपुंग नैवेद्य – पाकल केरा, घृत, दुग्ध, शक्कर तथा अन्यान्य प्रकारक मेवा सँ युक्त गहुँमक चिक्कस।
***घोरा प्रसाद – शक्कर तथा पाकल केरा मिश्रित गायक दूध।
अथ श्री सत्यनारायण पूजा प्रारम्भ
पूजाविधिः
तत्र कृतनित्यक्रियो व्रती पूजास्थानमागत्य शुद्धासने रात्रौ उदङ्मुखः* उपविश्य त्रिकुशहस्तः – अर्थात् अपन समस्त नित्यक्रियादि संपन्नकय व्रती पूजास्थान मे आबि शुद्ध आसन पर रातिकेँ उदङ्मुख (उत्तर मुंहे) बैसिकय तीन टा कुश हाथ मे धारण कय,
ॐ अपवित्रः पवित्रो वा सर्वावस्थां गतोऽपिवा। यः स्मरेत् पुण्डरीकाक्ष स बाह्याभ्यन्तरः शुचिः॥ ॐ पुण्डरीकाक्षः पुनातु॥
इति देयद्रव्यात्मनं चाभिषिच्य प्रथमं पञ्चदेवताः (विष्णुंच) पूजयेत्।
पञ्चदेवता पूजा – कुशहस्तः अक्षतान्यादाय – ॐ भूर्भूवः स्वः श्री गणपत्यादि पञ्चदेवता इहागच्छत इहतिष्ठत इत्यावाह्य। जल लऽ – एतानि पाद्यार्घचमनीय-स्नानीय-पुनराचमनीयानि ॐ श्री गणपत्यादि-पञ्चदेवताभ्यो नमः। चानल लऽ – इदमनुलेपनम् ॐ श्री गणपत्यादि पञ्चदेवता भ्यो नमः। अक्षत लऽ – इदमक्षतम् ॐ श्री गणपत्यादि पञ्चदेवता भ्यो नमः। एतानि पुष्पाणि ॐ श्री गणपत्यादि पञ्चदेवता भ्यो नमः। एतानि गन्धपुष्प-धूप-दीप-ताम्बूल-यथाभाग नानाविधनैवेद्यानि ॐ श्री गणपत्यादि पञ्चदेवता भ्यो नमः। इदमाचमनीयं ॐ श्री गणपत्यादि पञ्चदेवता भ्यो नमः। एष पुष्पाञ्जलिः ॐ श्री गणपत्यादि पञ्चदेवता भ्यो नमः।
विष्णु पूजा – यव तिलान्यादाय – ॐ भूर्भुवः स्वः भगवन् श्री विष्णो इहागच्छ इहतिष्ठ इत्यावाह्य। जल लऽ – एतानि पाद्यार्घचमनीय-स्नानीय-पुनराचमनीयानि ॐ भगवते श्री विष्णवे नमः। चानल लऽ – इदमनुलेपनम् ॐ भगवते श्री विष्णवे नमः । यव-तिल लऽ – एते यव-तिला ॐ भगवते श्री विष्णवे नमः । एतानि पुष्पाणि ॐ भगवते श्री विष्णवे नमः । इदम् तुलसीपत्रम् ॐ भगवते श्री विष्णवे नमः । इदम् दूर्वादलं ॐ भगवते श्री विष्णवे नमः । जल लऽ – एतानि गन्धपुष्प-धूप-दीप-ताम्बूल-यथाभाग नानाविधनैवेद्यानि ॐ भगवते श्री विष्णवे नमः । इदमाचमनीयं ॐ भगवते श्री विष्णवे नमः । एष पुष्पाञ्जलिः ॐ भगवते श्री विष्णवे नमः ।
संकल्प – ततः-कुशत्रय-तिल-जलान्यादय-ॐ अस्यां रात्रौ अमुके मासि अमुके पक्षे अमुक तिथौ अमुक गोत्रस्य मम श्री अमुक शर्मनः सपरिवारस्य सकल-दुरितोपसर्गापच्छान्तिपूर्वक सकलमनोरथ-सिद्धयर्थं यथाशक्ति गन्ध-धूप-दीप-ताम्बूल-यज्ञोपवित-वस्त्रापुंग नैवेद्यादिभिः-अंगदेवता-पूजापूर्वक (पूर्वाङ्गीकृत्) श्रीसत्यनारायण पूजनं तत्कथा श्रवणं चाहं करिष्ये।
अंगदेवतापूजनम्
लक्ष्मीपूजा – अक्षतान्यादाय – ॐ भूर्भुवः स्वः श्रीलक्ष्मि इहागच्छ इहतिष्ठ इत्यावाह्य। जल लऽ – एतानि पाद्यार्घचमनीय-स्नानीय-पुनराचमनीयानि ॐ श्री लक्ष्म्यै नमः। चानल लऽ – इदमनुलेपनम् ॐ श्री लक्ष्म्यै नमः । इदं सिन्दूराभरणं ॐ श्री लक्ष्म्यै नमः । इदमक्षतम् ॐ श्री लक्ष्म्यै नमः । इदं पुष्पम ॐ श्री लक्ष्म्यै नमः । इदं बिल्वपत्रम् ॐ श्री लक्ष्म्यै नमः । एतानि गन्धपुष्प-धूप-दीप-ताम्बूल-यथाभाग नानाविधनैवेद्यानि ॐ श्री लक्ष्म्यै नमः । इदमाचमनीयं ॐ श्री लक्ष्म्यै नमः । एष पुष्पाञ्जलिः ॐ भूर्भुवः स्वः श्री लक्ष्म्यै नमः ।
सरस्वती पूजा – अक्षतान्यादाय – ॐ भूर्भुवः स्वः श्रीसरस्वती इहागच्छ इहतिष्ठ इत्यावाह्य। जल लऽ – एतानि पाद्यार्घचमनीय-स्नानीय-पुनराचमनीयानि ॐ श्री सरस्वत्यै नमः। चानल लऽ – इदमनुलेपनम् ॐ श्री सरस्वत्यै नमः । इदं सिन्दूराभरणं ॐ श्री सरस्वत्यै नमः । इदमक्षतम् ॐ श्री सरस्वत्यै नमः । इदं पुष्पम ॐ श्री सरस्वत्यै नमः । एतानि गन्धपुष्प-धूप-दीप-ताम्बूल-यथाभाग नानाविधनैवेद्यानि ॐ श्री सरस्वत्यै नमः । इदमाचमनीयं ॐ श्री सरस्वत्यै नमः । एष पुष्पाञ्जलिः ॐ श्री सरस्वत्यै नमः ।
आदिपुरुष पूजा – अक्षतान्यादाय – ॐ भूर्भुवः स्वः श्रीआदिपुरुष इहागच्छ इहतिष्ठ इत्यावाह्य। जल लऽ – एतानि पाद्यार्घचमनीय-स्नानीय-पुनराचमनीयानि ॐ श्री आदिपुरुषाय नमः। चानल लऽ – इदमनुलेपनम् ॐ श्री आदिपुरुषाय नमः । इदमक्षतम् ॐ श्री आदिपुरुषाय नमः । इदं पुष्पम ॐ श्री आदिपुरुषाय नमः । इदं तुलसीपत्रम् ॐ श्री आदिपुरुषाय नमः । इदं दूर्वादलं ॐ श्री आदिपुरुषाय नमः । एतानि गन्धपुष्प-धूप-दीप-ताम्बूल-यथाभाग नानाविधनैवेद्यानि ॐ श्री आदिपुरुषाय नमः । इदमाचमनीयं ॐ श्री आदिपुरुषाय नमः । एष पुष्पाञ्जलिः ॐ श्री आदिपुरुषाय नमः ।
अनादिपुरुष पूजा – अक्षतान्यादाय – ॐ भूर्भुवः स्वः श्रीअनादिपुरुष इहागच्छ इहतिष्ठ इत्यावाह्य। जल लऽ – एतानि पाद्यार्घचमनीय-स्नानीय-पुनराचमनीयानि ॐ श्री अनादिपुरुषाय नमः। चानल लऽ – इदमनुलेपनम् ॐ श्री अनादिपुरुषाय नमः । इदमक्षतम् ॐ श्री अनादिपुरुषाय नमः । इदं पुष्पम् ॐ श्री अनादिपुरुषाय नमः । इदं तुलसीपत्रम् ॐ श्री अनादिपुरुषाय नमः । इदं दूर्वादलं ॐ श्री अनादिपुरुषाय नमः । एतानि गन्धपुष्प-धूप-दीप-ताम्बूल-यथाभाग नानाविधनैवेद्यानि ॐ श्री अनादिपुरुषाय नमः । इदमाचमनीयं ॐ श्री अनादिपुरुषाय नमः । एष पुष्पाञ्जलिः ॐ श्री अनादिपुरुषाय नमः ।
इन्द्रादिदसदिक्पाल पूजा – अक्षतान्यादाय – ॐ भूर्भुवः स्वः श्रीइन्द्रादि-दसदिक्पालाः इहागच्छत इहतिष्ठत इत्यावाह्य। जल लऽ – एतानि पाद्यार्घचमनीय-स्नानीय-पुनराचमनीयानि ॐ इन्द्रादि दसदिक्पाले भ्यो नमः। चानन लऽ – इदमनुलेपनम् ॐ इन्द्रादि दसदिक्पाले भ्यो नमः । इदमक्षतम् ॐ इन्द्रादि दसदिक्पाले भ्यो नमः । एतानि पुष्पाणि ॐ इन्द्रादि दसदिक्पाले भ्यो नमः। एतानि तुलसीपत्राणि ॐ इन्द्रादि दसदिक्पाले भ्यो नमः । एतानि दूर्वादलानि ॐ इन्द्रादि दसदिक्पाले भ्यो नमः । एतानि गन्धपुष्प-धूप-दीप-ताम्बूल-यथाभाग नानाविधनैवेद्यानि ॐ इन्द्रादि दसदिक्पाले भ्यो नमः । इदमाचमनीयं ॐ इन्द्रादि दसदिक्पाले भ्यो नमः । एष पुष्पाञ्जलिः ॐ इन्द्रादि दसदिक्पाले भ्यो नमः ।
नवग्रह पूजा – अक्षतान्यादाय – ॐ भूर्भुवः स्वः (साधिदैवत-सप्रत्यधिदैवत-विनायकादिपञ्चक सहित) नवग्रहाः इहागच्छत इहतिष्ठत इत्यावाह्य। जल लऽ – एतानि पाद्यार्घचमनीय-स्नानीय-पुनराचमनीयानि ॐ (साधिदैवत-सप्रत्यधिदैवत-विनायकादिपञ्चक सहित) नवग्रहेभ्यो नमः। चानन लऽ – इदमनुलेपनम् ॐ (साधिदैवत-सप्रत्यधिदैवत-विनायकादिपञ्चक सहित) नवग्रहेभ्यो नमः। इदमक्षतम् ॐ (साधिदैवत-सप्रत्यधिदैवत-विनायकादिपञ्चक सहित) नवग्रहेभ्यो नमः। एतानि पुष्पाणि ॐ (साधिदैवत-सप्रत्यधिदैवत-विनायकादिपञ्चक सहित) नवग्रहेभ्यो नमः। एतानि तुलसीपत्राणि ॐ (साधिदैवत-सप्रत्यधिदैवत-विनायकादिपञ्चक सहित) नवग्रहेभ्यो नमः। एतानि दूर्वादलानि ॐ (साधिदैवत-सप्रत्यधिदैवत-विनायकादिपञ्चक सहित) नवग्रहेभ्यो नमः। एतानि गन्धपुष्प-धूप-दीप-ताम्बूल-यथाभाग नानाविधनैवेद्यानि ॐ (साधिदैवत-सप्रत्यधिदैवत-विनायकादिपञ्चक सहित) नवग्रहेभ्यो नमः। इदमाचमनीयं ॐ (साधिदैवत-सप्रत्यधिदैवत-विनायकादिपञ्चक सहित) नवग्रहेभ्यो नमः। एष पुष्पाञ्जलिः ॐ (साधिदैवत-सप्रत्यधिदैवत-विनायकादिपञ्चक सहित) नवग्रहेभ्यो नमः।
ससीत रामलक्ष्मण पूजा – यव-तिलान्यादाय – ॐ भूर्भुवः स्वः श्रीससीत रामलक्ष्मणौ इहागच्छतमिहतिष्ठतम् इत्यावाह्य – एतानि पाद्यार्घाचमनीय-स्नानीय पुनराचमनीयानि ॐ श्रीससीत-राम-लक्ष्मणाभ्यां नमः। इदमनुलेपनम् ॐ श्रीससीत-राम-लक्ष्मणाभ्यां नमः। एते यवतिलाः ॐ श्रीससीत-राम-लक्ष्मणाभ्यां नमः। एतानि पुष्पाणि ॐ श्रीससीत-राम-लक्ष्मणाभ्यां नमः। एतानि तुलसीपत्राणि ॐ श्रीससीत-राम-लक्ष्मणाभ्यां नमः। एतानि दूर्वादलानि ॐ श्रीससीत-राम-लक्ष्मणाभ्यां नमः। एतानि गन्ध-पुष्प-धूप-दीप-ताम्बूल-यथाभाग-नानाविध-नैवेद्यानि ॐ श्रीससीत-राम-लक्ष्मणाभ्यां नमः। इदमाचमनीयम् ॐ श्रीससीत-राम-लक्ष्मणाभ्यां नमः। एष पुष्पाञ्जलिः ॐ श्रीससीत-राम-लक्ष्मणाभ्यां नमः।
अथ पंचोपचार श्री सत्यनारायण पूजा
यव तिलान् गृहीत्वा – ॐ भूर्भुवः स्वः भगवन् श्रीसत्यनारायण इहागच्छ इहतिष्ठ इत्यावाह्य (शालीग्राम शिलापर चढाउ)।
पुष्पं गृहीत्वा –
ॐ ध्यायेत् सत्यं गुणातीतं गुणत्रयसमन्वितम्।
लोकनाथं त्रिलोकेशं पीताम्बरधरं हरिम्॥
इन्दीवरदलश्यामं शंकचक्रगदाधरम्।
नारायणं चतुर्वाहुं श्रीवत्स-पदभूषितम्।
गोविन्दं गोकुलानन्दं जगतः पितरं गुरुम्॥
इदं ध्यानपुष्पम् ॐ भगवते श्रीसत्यनारायणाय नमः।
ततः अर्घमादाय – ॐ व्यक्ताव्यक्तस्वरूपाय हृषीकपतये नमः। मया निवेदितो भक्त्या अर्धोऽयं प्रतिगृह्यताम्।
एतानि पाद्यार्घाचमनीय स्नानीयपुनराचमनीयानि ॐ भगवते श्रीसत्यनारायणाय नमः। ततः पीतवस्त्रमादाय – ॐ इदं पीतवस्त्रं वृहस्पतिदैवतम् भगवते श्री सत्यनारायणाय नमः। ततः यज्ञोपवीमादाय – ॐ इमे यज्ञोपवीते वृहस्पतिदैवते भगवते श्रीसत्यनारायणाय नमः। इदमाचमनीयम् ॐ भगवते श्रीसत्यनारायणाय नमः। यव तिल – एते यव तिलाः ॐ भगवते श्रीसत्यनारायणाय नमः। ततः पुष्पाण्यादाय –
ॐ नमस्ते विश्वरूपाय शंखचक्रधराय च।
पद्मनाभाय देवाय हृषीकपतये नमः॥
नमोऽनन्तस्वरूपाय त्रिगुणात्मविभाजिने।
एतानि पुष्पाणि ॐ भगवते श्रीसत्यनारायणाय नमः। ततः चन्दनसहितानि तुलसीपत्राणि आदाय – एतानि सचन्दनतुलसीपत्राणि ॐ भगवते श्रीसत्यनारायणाय नमः। ततः पुष्पमाल्यं गृहीत्वा – इदं पुष्पमाल्यम् ॐ भगवते श्रीसत्यनारायणाय नमः। ततः दूर्वादलान्यादाय – एतानि दूर्वादलानि ॐ भगवते श्रीसत्यनारायणाय नमः। (ततः एकं विल्वपत्रं गृहीत्वा – इदं बिल्वपत्रम् ॐ भगवते श्रीसत्यनारायणाय नमः।) ततः धूपमादाय - एष धूपः ॐ भगवते श्रीसत्यनारायणाय नमः। ततः दीपमादाय – एष दीप ॐ भगवते श्रीसत्यनारायणाय नमः। ततः जलं गृहीत्वा – एतानि गन्ध-पुष्प-धूप-दीप ताम्बूल – यथाभाग – नानाविध – नैवेद्यानि ॐ भगवते श्रीसत्यनारायणाय नमः। ततः अपुङ्गनैवेद्यं गृहीत्वा –
ॐ त्वदीयं वस्तु गोविन्दं तुभ्यमेव समर्पितम्। गृहाण सुमुखो भूत्वा प्रसीद पुरुषोत्तम।
इदं पुंगनैवेद्यम् ॐ भगवते श्रीसत्यनारायणाय नमः। एतानि पृथुकान्नानि ॐ भगवते श्रीसत्यनारायणाय नमः। इदं ससितदधि-चिपटान्नम् ॐ भगवते श्रीसत्यनारायणाय नमः। (अनेनैव क्रमेण अन्यान्यपि वस्तूनि उत्सृजेत्) ततः इदमाचमनीयम् ॐ भगवते श्रीसत्यनारायणाय नमः।
ततः पुष्पाञ्जलिः – पुष्पाण्यादाय –
ॐ अमोघं पुण्डरीकाक्षं नृसिंहं दैत्यसूदनम्। हृषिकेशं जगन्नाथं वागीशं वरदायकम्॥
गुणत्रयं गुणातीतं गोविन्दं गरुड़ध्वजम्। जनार्दनं जनानन्दं जानकीवल्लभं जयम्॥
प्रणमामि सदा सत्यनारायणमतः परम्। दुर्गमे विषमे घोरे शत्रुभिः परिपीडिते॥
विविधापत्सु दुष्टेषु तथाऽन्येष्वपि यद्भयम्। नामान्येतानि सङ्कीर्त्य ईप्सितं फलमाप्नुयात्॥
सत्यनारायणं देवं वन्देऽहं कामदं प्रभुम्। लीलया च ततं विश्वं येन तस्मै नमो नमः। एष पुष्पाञ्जलिः ॐ भगवते श्रीसत्यनारायणाय नमः। (ततः पूर्वोक्तमन्त्रेण वारद्वयं पुनः पुष्पाञ्जलिं दद्यात्)।
अथ षोडशोपचार पूजा विधिः
प्राणप्रतिष्ठा – यव तिलान्यादाय (शालिग्रामशिलोपरि) – ॐ मनोजूतिर्जुषतामाज्यस्य वृहस्पतिर्यज्ञमि – मन्तनोत्वरिष्टं यज्ञग्वं समिमं दधातु। विश्वेदेवास इह मादयन्तामोम् प्रतिष्ठ।
ॐ भूर्भुवः स्वः भगवन् श्रीसत्यनारायण! इहागच्छ, इहतिष्ठि, इह सुप्रतिष्ठतो भव।
ध्यानपुष्पम् – ॐ ध्यायेत् सत्यं गुणातीतं गुणत्रयसमन्वितम्। लोकनाथं त्रिलोकेशं पीताम्बरधरं हरिम। इन्दीवरदलश्यामं शंखचक्रगदाधरम्। गोविन्दं गोकुलानन्दं जगतः पितरं गुरुम्॥ इदं ध्यान-पुष्पं भगवते श्रीसत्यनारायणाय नमः॥
आवाहन – ॐ दामोदर समागच्छ लक्ष्म्या सह जगत्पते। इमां मया कृतां पूजां गृहाण पुरुषोत्तम॥
पुष्पासन – ॐ नानारत्नसमायुक्तं कार्तस्वरविभूषितम्। आसनं देव देवेश गृहाण पुरुषोत्तम॥ इदं पुष्पासनम् ॐ भगवते श्रीसत्यनारायणाय नमः।
पाद्य – ॐ नारायण नमस्तेऽस्तु नरकार्णवतारक। पाद्यं गृहाण देवेश मम सौख्यं विवर्द्धय॥ इदं पाद्यम् ॐ भगवते श्रीसत्यनारायणाय नमः।
अर्घ्य – ॐ व्यक्ताऽव्यक्तस्वरूपाय हृषीकपतये नमः। मया निवेदितो भक्त्याअर्घोयं प्रति गृह्यताम्॥ इदमर्घ्यं ॐ भगवते श्रीसत्यनारायणाय नमः।
आचमन – ॐ मन्दाकिन्यां तु यद्वारि सर्वपापहरं शुभम्। तदिदं कल्पितं देव सम्यगाचम्यतां त्वया॥ इदमाचमनीयम् ॐ भगवते श्रीसत्यनारायणाय नमः।
स्नान – ॐ गंगा च यमुना चैव नर्मदा च सरस्वती। तीर्थानां पावनं तोयं स्नानार्थं प्रतिगृह्यताम्॥ इदं स्नानीयं ॐ भगवते श्रीसत्यनारायणाय नमः।
पञ्चामृत – ॐ अनाथनाथ सर्वज्ञ गीर्वाणपरिपूजितः। स्नानं पञ्चामृतैर्देव गृहाण पुरुषोत्तम॥ इदं पञ्चामृतम् ॐ भगवते श्रीसत्यनारायणाय नमः।
शुद्धोदक – ॐ परमानन्दतोयाब्धौ निमग्नस्तव मूर्तये। साङ्गोपाङ्गमिदं स्नानं कल्पयामि प्रसीदमे॥ इदं शुद्धोदक स्नानं ॐ भगवते श्रीसत्यनारायणाय नमः।
पीतवस्त्र – ॐ पीताम्बरधरं देवं सर्वकामार्थ सिद्धये। मया निवेदितं भक्त्या गृहाण पुरुषोत्तम। इदं पीतवस्त्रं वृहस्पति दैवतं ॐ भगवते श्रीसत्यनारायणाय नमः।
यज्ञोपवीत – ॐ दामोदर नमस्तेस्तु त्राहिमाम् भवसागरात्। ब्रह्मसूत्रं सोत्तरीयं गृहाण पुरुषोत्तम॥ इमे यज्ञोपवीते वृहस्पति दैवते ॐ भगवते श्रीसत्यनारायणाय नमः।
चानन – ॐ श्रीखण्डचन्दनं दिव्यं गन्धाढ्यं सुमनोहरम्। विलेपनं सुरश्रेष्ठ चन्दनं प्रतिगृह्यताम्॥ इदं श्रीखण्डचन्दनम् ॐ भगवते श्रीसत्यनारायणाय नमः।
रक्त चानन – इदं रक्तचन्दनं ॐ भगवते श्रीसत्यनारायणाय नमः।
यव-तिल – ॐ यव-तिलाः सुरश्रेष्ठाः कम्बूजाश्च सुशोभनाः। वासुदेव जगन्नाथ प्रीत्यर्थं प्रतिगृह्यताम्॥ एते यवतिलाः ॐ भगवते श्रीसत्यनारायणाय नमः।
पुष्प – ॐ सुगन्धीनि सुपुष्पाणि देशकालोद्भवानि च। मयानीतानि पूजार्थं प्रीत्या तत् स्वीकुरु प्रभो॥ एतानि पुष्पाणि ॐ भगवते श्रीसत्यनारायणाय नमः।
पुष्पमाला – ॐ नानापुष्पविचित्राढ्यां पुष्पमालां सुशोभितम्। प्रयच्छामि च देवेश गृहाण परमेश्वर॥ इदं पुष्पमाल्यम् ॐ भगवते श्रीसत्यनारायणाय नमः।
तुलसीदल – ॐ तुलसीं हेमरूपां च रत्नरूपां च मञ्जरीम्। भव मोक्षप्रदां तुभ्यमर्पयामि हरि प्रियाम्॥ एतानि तुलसी सुपत्राणि ॐ भगवते श्रीसत्यनारायणाय नमः।
दूर्वादल – इदं दूर्वादलं ॐ भगवते श्रीसत्यनारायणाय नमः।
धूप – ॐ वनस्पतिरसो दिव्यो गन्धाढ्यः सुमनोहरः। आघ्रेयः सर्वदेवानां धूपोयं प्रतिगृह्यताम्॥ एष धूपः ॐ भगवते श्रीसत्यनारायणाय नमः।
दीप – ॐ आज्यं च वर्तिसंयुक्तं वह्निना योजितं मया। दीपं गृहाण देवेश त्र्यैलोक्यतिमिरापह॥ एष दीपः ॐ भगवते श्रीसत्यनारायणाय नमः।
नैवेद्य – ॐ नैवेद्यं गृह्यतां देव भक्तिं में ह्यचलां कुरु। ईत्सितं च वरं देहि परत्र पराङ्गतिम्। एतानि नानाविधनैवेद्यानि ॐ भगवते श्रीसत्यनारायणाय नमः।
अपुङ्गनैवेद्य – ॐ त्वदीयं वस्तु गोविन्द! तुभ्यमेव समर्पितम्। गृहाण सुमुखो भूत्वा प्रसीद पुरुषोत्तम॥ इदमपुङ्गनैवेद्यम् ॐ भगवते श्रीसत्यनारायणाय नमः।
चौरठ – ॐ कदली-गुड-संमिश्रणमतंडुलसंयुतम्। शर्करादिसमायुक्तं नैवेद्यं प्रतिगृह्यताम्॥ एतानि पृथुकान्नानि ॐ भगवते श्रीसत्यनारायणाय नमः।
घोरल प्रसाद – ॐ शर्करा-कदलीयुक्तं गोदुग्धेन समन्वितम्। नैवेद्यमुत्तमं देव गृहाण पुरुषोत्तम॥ एतानि सुस्वादुदिव्यान्नानि ॐ भगवते श्रीसत्यनारायणाय नमः।
फल – ॐ फलान्यमृतकल्पानि स्थापितानि पुरस्तव। तेन मे सफलावाप्तिर्भवेज्जन्मनि जन्मनि॥ एतानि नानाविध फलानि ॐ भगवते श्रीसत्यनारायणाय नमः।
चूड़ा-दही – एतानि ससित दधि-चिपटान्नानि ॐ भगवते श्रीसत्यनारायणाय नमः।
आचमन – ॐ सर्वपापहरं दिव्यं गांगेयं निर्मलं जलम्। दत्तमाचमनीयं ते गृहाण पुरुषोत्तम॥ इदमाचमनीयम् ॐ भगवते श्रीसत्यनारायणाय नमः।
ताम्बूल – ॐ पूगीफलं महद्दिव्यं नागवल्लीदलैर्युतम्। कर्पूरादिसमायुक्तं ताम्बूलं प्रतिगृह्यताम्॥ एतानि ताम्बूलानि ॐ भगवते श्रीसत्यनारायणाय नमः। इदमाचमनीयम् ॐ भगवते श्रीसत्यनारायणाय नमः।
द्रव्य – ॐ काञ्चनं रजतोपेतं नानारत्नसमन्वितम्। भूषणार्थं च देवेश गृहाण जगतांपते॥ इदं द्रव्यम् भगवते ॐ भगवते श्रीसत्यनारायणाय नमः।
पुष्पाञ्जलिः –
ॐ अमोघं पुण्डरीकाक्षं नृसिंह दैत्यसूदनम्। हृषिकेशं जगन्नाथं वागीशं वरदायकम्॥
गुणत्रयं गुणातीतं गोविन्दं गरुड़ध्वजम्। जनार्दनं जनानन्दं जानकीवल्लभं जयम्॥
प्रणमामि सदा सत्यनारायणमतः परम्। दुर्गमे विषमे घोरे शत्रुभिः परिपीडते॥
विविधापत्सु दृष्टेषु तथान्येष्वपि यद्भयम्। नामान्येतानि संङ्कीर्त्य ईप्सितं फलमाप्नुयात्॥
सत्यनारायणं देवं वन्देऽहं कामदं प्रभुम्। लीलया च ततं विश्वं येन तस्मै नमोनमः॥
एषपुष्पाञ्जलिः ॐ साङ्गसायुध-सवाहन-सपरिवार भगवते श्रीसत्यनारायणाय नमः।
ततः उपर्युक्त मन्त्रेण वारद्वयं पुष्पाञ्जलिं दद्यात् इति षोडशोपचार श्री सत्यनारायण पूजा विधिः।
ततः गौरीशंकर पूजनम् – अक्षतानि गृहीत्वा – ॐ गौरीशंकरौ इहागच्छतम् इहतिष्ठतम् इत्यावाह्य स्थापयित्वा, जलं गृहीत्वा – एतानि पाद्यार्घमनीय-स्नानीय-पुनराचमनीयानि ॐ गौरीशंकराभ्यां नमः।
ततः ब्रह्मपूजनम् – अर्घपात्रे-जल-अक्षत पुष्पचन्दनादि कृत्वा ॐ ब्रह्मणे नमः इति सर्वं भूमौ निक्षिपेत्।
तत्पश्चात् –
श्री सत्यनारायण भगवान् व्रत कथा।
अथ प्रथमोऽध्यायः
व्यास उवाच
एकदा नैमिषारण्ये ऋषयः शौनकादयः ।
प्रपच्छुर्मुनयः सर्वे सूतं पौराणिकं खलु ॥1॥
ऋषयः उवाच
व्रतेन तपसा किं वा प्राप्यते वांछितं फलम् ।
तत्सर्वं श्रोतुमिच्छामः कथयस्व महामुने ॥2॥
सूत उवाच
नारदेनैव संपृष्टो भगवान्कमलापतिः ।
सुरर्षये यथैवाह तच्छृणुध्वं समाहिताः ॥3॥
एकदा नारदो योगी परानुग्रहकांक्षया ।
पर्यटन्विविधाँल्लोकान्मर्त्यलोकमुपागतः ॥4॥
ततो दृष्ट्वा जनान्सर्वान्नानाक्लेशसमन्वितान् ।
नानायोनि समुत्पान्नान् क्लिश्यमानान्स्वकर्मभिः ॥5॥
केनोपायेन चैतेषां दुःखनाशो भवेद्ध्रुवम् ।
इति संचिन्त्य मनसा विष्णुलोकं गतस्तदा ॥6॥
तत्र नारायणंदेवं शुक्लवर्णचतुर्भुजम् ।
शंख चक्र गदा पद्म वनमाला विभूषितम् ॥7॥
दृष्ट्वा तं देवदेवेशंस्तोतुं समुपचक्रमे ।
नारद उवाच
नमोवांगमनसातीत- रूपायानंतशक्तये ।
आदिमध्यांतहीनाय निर्गुणाय गुणात्मने ॥8॥
सर्वेषामादिभूताय भक्तानामार्तिनाशिने ।
श्रुत्वा स्तोत्रंततो विष्णुर्नारदं प्रत्यभाषत् ॥9॥
श्रीभगवानुवाच
किमर्थमागतोऽसि त्वं किंते मनसि वर्तते ।
कथायस्व महाभाग तत्सर्वं कथायमिते ॥10॥
नारद उवाच
मर्त्यलोके जनाः सर्वे नानाक्लेशसमन्विताः ।
ननायोनिसमुत्पन्नाः पच्यन्ते पापकर्मभिः ॥11॥
तत्कथं शमयेन्नाथ लघूपायेन तद्वद् ।
श्रोतुमिच्छामि तत्सर्वं कृपास्ति यदि ते मयि ॥12॥
श्रीभगवानुवाच
साधु पृष्टं त्वया वत्स लोकानुग्रहकांक्षया ।
यत्कृत्वा मुच्यते मोहत्तच्छृणुष्व वदामि ते ॥13॥
व्रतमस्ति महत्पुण्यं स्वर्गे मर्त्ये च दुर्लभम् ।
तव स्नेहान्मया वत्स प्रकाशः क्रियतेऽधुना ॥14॥
सत्यनारायणस्यैवं व्रतं सम्यग्विधानतः ।
कृत्वा सद्यः सुखं भुक्त्वा परत्र मोक्षमाप्युयात् ।
तच्छुत्वा भगवद्वाक्यं नारदो मुनिरब्रवीत् ॥15॥
नारद उवाच
किं फलं किं विधानं च कृतं केनैव तद्व्रतम् ।
तत्सर्वं विस्तराद् ब्रूहि कदा कार्यं हि तद्व्रतम् ॥16॥
श्रीभगवानुवाच
दुःखशोकादिमनंधनधान्यप्रवर्धनम् ॥17॥
सौभाग्यसन्ततिकरं सर्वत्रविजयप्रदम् ।
यस्मिन्कस्मिन्दिने मर्त्यो भक्ति श्रद्धासमन्वितः ॥18॥
सत्यनारायणं देवं यजेच्चैव निशामुखे ।
ब्राह्मणैर्बान्धवैश्चैव सहितो धर्मतत्परः ॥19॥
नैवेद्यं भक्तितो दद्यात्सपादं भक्ष्यमुत्तमम् ।
रंभाफलं घृतं क्षीरं गोधूममस्य च चूर्णकम् ॥20॥
अभावेशालिचूर्णं वा शर्करा वा गुडस्तथा ।
सपादं सर्वभक्ष्याणि चैकीकृत्य निवेदयेत् ॥21॥
विप्राय दक्षिणां दद्यात्कथां श्रुत्वाजनैः सह ।
ततश्चबन्धुमिः सार्धं विप्रांश्च प्रतिभोजयेत् ॥22॥
प्रसादं भक्षयभ्दक्त्या नृत्यगीतादिकं चरेत् ।
ततश्च स्वगृहं गच्छेत्सत्यनारायणं स्मरन् ॥23॥
एवंकृते मनुष्याणां वांछासिद्धिर्भवेद् ध्रुवम् ।
विशेषतः कलियुगे लघूपायऽस्ति भूतले ॥24॥
इति श्रीस्कन्द पुराणे रेवाखण्डे सत्यनारायण व्रत कथायां प्रथमोऽध्यायः समाप्तः ॥
अथ द्वितियोऽध्यायः
सूत उवाच
अथान्यत्संप्रवक्ष्यामि कृतं येन पुरा द्विज ।
कश्चित् काशीपुरे रम्ये ह्यासीद्विप्रोऽतिनिर्धनः ॥1॥
क्षुत्तृड्भ्यां व्याकुलो भूत्वा नित्यं बभ्राम भूतले ।
दुःखितं ब्राह्मणं दृष्ट्वा भगवान्ब्राह्मणप्रियः ॥2॥
वृद्धब्राह्मणरूपस्तं पप्रच्छ द्विजमादरात् ।
किमर्थं भ्रमसे विप्र महीं नित्यं सुदःखितः
तत्सर्वं श्रोतुमिच्छामि कथ्यतां द्विजसत्तम ॥3॥
ब्राह्मण उवाच
ब्राह्मणोऽति दरिद्रोऽहं भिक्षाथं वै भ्रमे महीम् ॥4॥
उपायं यदि जानासि कृपया कथय प्रभो ।
वृद्धब्राह्मण उवाच
सत्यनारायणो विष्णुर्वांछितार्थफलप्रदः ॥5॥
तस्य त्वं पूजनं विप्र कुरुष्व व्रतमुत्तमम् ।
यत्कृत्वा सर्वदुखेभ्यो मुक्तो भवति मानवः ॥6॥
विधानं च व्रतस्यापि विप्रायाभाष्य यत्नतः ।
सत्यनारायणो वृद्धस्तत्रैवान्तरधीयत् ॥7॥
तद्व्रतं संकरिष्यामि यदुक्तंब्राह्मणेन वै ।
इति संचिंत्य विप्रोऽसौ रात्रौ निद्रां न लब्धवान् ॥8॥
ततः प्रातः समुत्थाय सत्यनारायणव्रतम् ।
करिष्य इति संकल्प्य भिक्षार्थमगमद् द्विजः ॥9॥
तस्मिन्नेव दिने विप्रः प्रचुरं द्रव्यमाप्तवान् ।
तेनैव बन्धुभिः सार्धं सत्यस्य ब्रतमाचरत् ॥10॥
सर्वदुःखविनिर्मुक्तः सर्वसंपत्समन्वितः ।
बभूव स द्विजश्रेष्ठो व्रतस्यास्य प्रभावतः ॥11॥
ततः प्रभृति कालं चम मासि व्रतं कृतम् ।
एवं नारायणेवेकतिम व्रतं कृत्वा द्विजोत्तमः ॥12॥
सर्वपापविनिर्मुक्तो दुर्लभं मोक्षमाप्तवान् ।
व्रतमस्य यदा विप्राः पृथिव्यां संकरिष्यति ॥13॥
तदैव सर्वदुःखं तु मनुजस्य विनश्यति ।
एवं नारायणेनोक्तं नारदाय महात्मने ॥14॥
मया तत्कथितं विप्राः किमन्यत्कथयामि वः ।
ऋषयः उवाच
तस्माद्विप्राच्छुतं केन पृथिव्यां चरितं मुने ।
तत्सर्वं श्रोतुमिच्छामः श्रद्धाऽस्माकं प्रजायते ॥15॥
सूत उवाच
श्रृणुध्वं मुनयः सर्वे व्रतं येन कृतं भुवि ।
एकदा स द्विजवरो यथाविभवविस्तारै ॥16॥
बन्धुभिः स्वजनैः सार्धं व्रतं कर्तुं समुद्यतः ।
एतस्मिन्नंतरे काले काष्ठक्रेता समागमत् ॥17॥
बहिःकाष्ठं च संस्थाप्य विप्रस्य गृहमाययौ ।
तृष्णाया पीडितात्मा च दृष्ट्वा विप्रं कृतव्रतम् ॥18॥
प्रणिपत्य द्विजं प्राह किमिदं त्वया ।
कृते किं फलमाप्नोति विस्तराद्वद मे प्रभो ॥19॥
विप्र उवाच
सत्यनारायणेस्येदं व्रतं सर्वेप्सितप्रदम् ।
तस्य प्रसादान्मे सर्वं धनधान्यादिकं महत् ॥20॥
तस्मादेतद्व्रतं ज्ञात्वा काष्ठक्रेताऽतिहर्षितः ।
पपौ जलं प्रसादं च भुक्त्वा च नगरं ययौ ॥21॥
सत्यनारायणंदेवं मनसाऽसौचिन्तयतं ।
काष्ठंविक्रयतो ग्रामे प्राप्यते चाद्ययद्धनम् ॥22॥
तेनैव सत्यदेवस्य करिष्ये व्रतमुत्तमम् ।
इति संचिन्त्य मनसा काष्ठं धृत्वा तु मस्तके ॥23॥
जगामनगरे रम्ये धनिनां यत्र संस्थितिः ।
तद्दिने काष्ठमूल्यं च द्विगुणं प्राप्तवानसौ ॥24॥
ततः प्रसन्नहृदयः सुपक्वं कदलीफलम् ।
शर्कराघृतदुग्धं च गौधूमस्य च चूर्णकम् ॥25॥
कृत्वैकत्र सपादं च गृहीत्वा स्वगृहं ययौ ।
ततो बन्धून् समाहूय चकार विधिना व्रतम् ॥26॥
तद्व्रतस्य प्रभावेण धनपुत्रान्वितोऽभवत् ।
इह लोके सुखं भुक्त्वा चांते सत्यपुरं ययौ ॥27॥
इति श्रीस्कन्द पुराणे रेवाखण्डे सत्यनारायण व्रत कथायां द्वितीयोऽध्यायः समाप्तः॥
अथ तृतियोऽध्यायः
सूत उवाच
पुनरग्रे प्रवक्ष्यामि श्रृणुध्वं मुनिसत्तमाः ।
पुरा उल्कामुखो नाम नृपश्चासीन्महामतिः ॥1॥
जितेन्द्रियःसत्यवादी ययौ देवालयंप्रति ।
दिनेदिने धनं दत्त्वा द्विजान्संतोषयन्मुधीः ॥2॥
भार्यातस्य प्रमुग्धा च सरोजवदना सती ।
भद्रशीला नदी तीरे सत्यस्य व्रतमाचरत् ॥3॥
एतस्मिन्नन्तरे तत्र साधुरेकः समागतः ।
वाणिज्यार्थं बहुधनैरनेकैः परिपूरितः ॥4॥
नावं संस्थाप्य तत्तीरे जगाम नृपतिं प्रति ।
दृष्ट्वा स व्रतिनं भूपं प्रपच्छ विनयान्वितः ॥5॥
साधुरुवाच
किमिदं कुरुषे राजन्भक्तियुक्तेन चेतसा ।
प्रकाशं कुरु तत्सर्वं श्रोतुमिच्छामि सांप्रतम् ॥6॥
राजोवाच
पूजनं क्रियते साधो विष्णोरतुलतेजसः ।
व्रतं च स्वजनैः सार्धं पुत्राद्या वाप्तिकाम्यया ॥7॥
भूपस्य वचनं श्रुत्वा साधुः प्रोवाच सादरम् ।
सर्वं कथय मे राजन्करिष्येऽहं तवोदितम् ॥8॥
ममापि सन्ततिर्नास्ति ह्येतस्माज्जायते ध्रुवम् ।
ततो निवृत्य वाणिज्यात्सानंदो गृहमागतः ॥9॥
भार्यायै कथितं सर्वं व्रतं संततिदायकम् ।
तदा व्रतं करिष्यामि यदा मे संततिर्भवेत् ॥10॥
इति लीलावतीं प्राह पत्नीं साधुः स सत्तमः ।
एकस्मिन्दिवसे तस्यभार्या लीलावती सती ॥11॥
भर्तृयुक्तानंदचित्ताऽभवद्धर्म-परायणा ।
गर्भिणी साभवत्तस्य भार्या सत्यप्रसादतः ॥12॥
दशमे मासि वै तस्याः कन्या रत्नमजायत ।
दिने दिने सा ववृधे शुक्लपक्षे यथा शशी ॥13॥
नाम्नाकलावती चेति तन्नामकरणं कृतम् ।
ततो लीलावती प्राह स्वामिनं मधुरं वचः ॥14॥
न करोषि किमर्थं वै पुरा संकल्पितव्रतम् ।
साधुरुवाच
विवाह समये त्वस्या करिष्यामि व्रतं प्रिये ॥15॥
इति भार्यां समाश्वास्य जगाम नगरं प्रति ।
ततः कलावती कन्या ववृधे पितृवेश्मनि ॥16॥
दृष्ट्वा कन्यांततः साधुर्नगरे सखिभिः सह ।
मंत्रयित्वा द्रुतं दूतं प्रेषयामास धर्मवित् ॥17॥
विवाहार्थं च कन्यायाः वरं श्रेष्ठंविचारय ।
तेनाज्ञप्तश्च दूतोऽसौ कांचनं नगरं ययौ ॥18॥
तस्मादेकं वणिक्पुत्रं समादायागतो हि सः ।
दृष्ट्वा तु सुंदरं बालं वणिक्पुत्रं गुणान्वितम् ॥19॥
ज्ञातिभिर्बन्धुभिः सार्धं परितुष्टेन चेतसा ।
दत्तावान्साधु पुत्राय कन्यां विधिविधानतः ॥20॥
ततोऽभाग्यवशात्तेन विस्मृतं व्रतमुत्तमम् ।
विवाहसमये तस्यास्तेनरुष्टोऽभवत्प्रभुः ॥21॥
ततः कालेनकियता निज कर्मविशारदः ।
वाणिज्यायगतः शीघ्रं जामातृसहितो वणिक् ॥22॥
रत्नसारपुरे रम्ये गत्वा सिंधुसमीपतः ।
वाणिज्यमकरोत्साधुर्जामात्रा श्रीमता सह ॥23॥
तौ गतौ नगरे रम्ये चंद्रकेतोर्नृपस्य च ।
एतस्मिन्नेव काले तु सत्यनारायणः प्रभुः ॥24॥
भ्रष्टप्रतिज्ञमालोक्य शापं तस्मै प्रदत्तवान् ।
दारुणं कठिनं चास्य महद्दुःखं भविष्यति ॥25॥
एकस्मिन्दिवसे राज्ञो धनमादाय तस्करः ।
तत्रैव चागतश्चौरो वणिजौ यत्र संस्थितौ ॥26॥
तत्पश्चाद्धावकान्दूतान्दृष्टवा भीतेन चेतसा ।
धनंसंस्थाप्य तत्रैव सतुशीघ्रमलक्षितः ॥27॥
ततोदूतः समायाता यत्रास्ते सज्जनो वणिक् ।
दृष्ट्वा नृपधनं तत्र बद्ध्बाऽऽनतौ वणिक्सुतौ ॥28॥
हर्षेण धावमानाश्च प्रोचुर्नृपसमीपतः ।
तस्करौ द्वौ समानीतौ विलोक्याज्ञापय प्रभो ॥29॥
राज्ञाऽऽज्ञप्तास्ततः शीघ्रं दृढं बद्ध्वा तु तावुभौ ।
स्थापितौ द्वौ महादुर्गे कारारेऽविचारतः ॥30॥
मायया सत्यदेवस्य न श्रुतं कैस्तयोर्वचः ।
अतस्तयोर्धनं राज्ञा गृहीतं चंद्रकेतुना ॥31॥
तच्छापाच्च तयोर्गेहे भार्या चैवातिदुःखिता ।
चौरेणापहृतं सर्वं गृहे यच्च स्थितं धनम् ॥32॥
आधिव्याधिसमायक्ता क्षुत्पिपासातिदुःखिता ।
अन्नचिंतापरा भूत्वा बभ्राम च गृहे गृहे ।
कलावती तु कन्याऽपि बभ्राम प्रतिवासरम् ॥33॥
एकस्मिन्दिवसे याता क्षुधार्ता द्विजमन्दिरम् ।
गत्वाऽपश्यद् व्रतं तत्र सत्यनारायणस्य च ॥34॥
उपविश्य कथां श्रुत्वा वरं प्रार्थितवत्यपि ।
प्रसादभक्षणं कृत्वा ययौ रात्रौ गृहं प्रति ॥35॥
माता कलावतीं कन्यां कथयामास प्रेमतः ।
पुत्रि रात्रौ स्थिता कुत्र किं ते मनसि वर्तते ॥36॥
कन्या कलावती प्राह मातरं प्रति सत्वरम् ।
द्विजालयं व्रतं मातर्दृष्टं वांछित सिद्धिदम् ॥37॥
तच्छुत्वा कन्यकावाक्यं व्रतं कर्तुं समुद्यता ।
सा मुदा तु वणिग्भार्या सत्यनारायणस्य च ॥38॥
व्रतं चक्रे सैव साध्वी बन्धुभिःस्वजनै सह ।
भर्तृजामातरौ क्षिप्रमागच्छेतां स्वमाश्रमम् ॥39॥
अपराधं च मे भर्तुर्जामातुः क्षंतुमर्हसि ।
व्रतेनानेन तुष्टोऽसौ सत्यनारायणः प्रभुः ॥40॥
दर्शयामास स्वप्नं ही चंद्रकेतुं नृपोत्तमम् ।
बन्दिनौ मोचय प्रातर्वणिजौ नृपसत्तम ॥41॥
देयं धनं च तत्सर्वं गृहीतं यत्त्वयाऽधुना ।
नो चेत्त्वां नाशयिष्यामि सराज्य धनपुत्रकम् ॥42॥
एवमाभाष्यराजानं ध्यानगम्योऽभवत्प्रभुः ।
ततः प्रभातसमये राजा च स्वजनैः सह ॥43॥
उपविश्य सभामध्ये प्राह स्वप्नं जनं प्रति ।
बद्धौ महाजनौ शीघ्रं मोचय द्वौ वणिक्सुतौ ॥44॥
इति राज्ञो वचः श्रुत्वा मोचयित्वा महाजनौ ।
समानीय नृपस्याग्रे प्राहुस्ते विनयान्विताः ॥45॥
आनीतौ द्वौ वणिक्यपुत्रौ मुक्तौ निगडबंधनात् ।
ततो महाजनौ नत्वा चंद्रकेतुं नृपोत्तम् ॥46॥
स्मरंतौ पूर्ववृत्तांतं नोचतुर्भयविह्वलौ ।
राजावणिक्सुतौ वीक्ष्य वचः प्रोवाच सादरम् ॥47॥
देवात्प्राप्तं महद्दुःखमिदानीं नास्ति वै भयम् ।
दता निगडसंत्यागं क्षौर कर्माद्यकारयत् ॥48॥
वस्त्रालंकारकंदत्त्वा पारितोष्य नृपश्च तौ ।
पुरस्कृत्य वणिक्पुत्रौ वचमातोषयद्भृशम् ॥49॥
पुरानीतं तुयद्द्रव्यं द्विगुणीकृत्य दत्तवान् ।
प्रोवाज तौ ततो राजा गच्छ साधो निजाश्रमम् ॥50॥
राजानं प्रणिपत्याह गंतव्यं त्वत्प्रसादतः ।
इत्युक्त्वा तौ महावैश्यौ जग्मतुः स्व गृहं प्रति ॥51॥
इति श्रीस्कन्द पुराणे रेवाखंडे सत्यनारायण व्रत कथायां तृतीयोऽध्यायः समाप्तः ॥
अथ चतुर्थोऽध्यायः
सूत उवाच
यात्रां तु कृतवान् साधुर्मंगलायनपूर्विकाम् ।
ब्राह्मणेभ्यो धनं दत्त्वा तदा तु नगरं ययौ ॥1।
कियद्दूरं गते साधौ सत्यनारायणः प्रभुः ।
जिज्ञासां कृतवान् साधौ किमस्ति तव नौस्थितम् ॥2॥
ततो महाजनौ मत्तौ हेलया च प्रहस्य वै ।
कथं पृच्छसि भो दंडिन् मुद्रां नेतुं किमच्छसि ॥3॥
लता पत्रादिकं चैव वर्तते तरणौ मम ।
निष्ठुरं च वचः श्रुत्वा सत्यं भवतु ते वचः ॥4॥
एवमुक्त्वा गतः शीघ्रं दंडी तस्य समीपतः ।
कियद् दूरं ततो गत्वा स्थितः सिन्धुसमीपतः ॥5॥
गते दंडिनि साधुश्च कृतनित्यक्रियस्तदा ।
उत्थितां तरणिं दृष्ट्वा विस्मयं परमं ययौ ॥6॥
दृष्ट्वा लतादिकं चैव मूर्च्छितोन्यप तद्भुवि ।
लब्धसंज्ञोवणिक्पुत्रस्ततनिश्चन्तान्वितोऽभवत् ॥7॥
तदा तु दुहितः कान्तो वचनंचेदमब्रवीत् ।
किमर्थं क्रियते शोकःशापो दत्तश्च दंडिना ॥8॥
शक्यते तेन सर्वं हि कर्तुं चात्र न संशयः ।
अतस्तच्छरणंयामो वाञ्छितार्थो भविष्यति ॥9॥
जामातुर्वचनं श्रुत्वा तत्सकाशं गतस्तदा ।
दृष्ट्वा च दंडिनं भक्त्या नत्वा प्रोवाज सादरम् ॥10॥
क्षमस्व चापराधं मे यदुक्तं तव सन्निधो ।
एवं पुनः पुनर्नत्वा महाशोकाकुलोऽभवत् ॥11॥
प्रोवाच वचनं दंडी विलपन्तंविलोक्य च ।
मा रोदीः श्रृणु मद्वाक्यं मम पूजाबहिर्मुखः ॥12॥
ममाज्ञया च दुर्बुद्धे लब्धं दुःखं मुहुर्मुहुः ।
तच्छुत्वाभगवद्वाक्यं स्तुति कर्तुं समुद्यतः ॥13॥
साधु उवाच
त्वश्वायामोहिताः सर्वे ब्राह्माद्यास्त्रिदिवौकसः ।
न जानंति गुणन् रूपं तवाश्चर्यमिदं प्रभो ॥14॥
मूढोऽहंत्वां कथं जाने मोहितस्तव मायया।
प्रसीद पूजयिष्यामि यथा विभवविस्तरैः ॥15॥
पुरा वित्तं च तत्सर्वं त्राहि माम् शरणागतम् ।
श्रुत्वा भक्तियुतं वाक्यं परितुष्टो जनार्दनः ॥16॥
वरं च वांछितं दत्त्वा तत्रैवांतर्दधे हरिः ।
ततो नावं समारुह्य दृष्ट्वा वित्तप्रपूरिताम् ॥17॥
कृपया सत्यदेवस्य सफलं वांछितं मम ।
इत्युक्त्वा स्वजनैः सार्धं पूजां कृत्वा यथाविधिः ॥18॥
हर्षेण चाभवत्पूर्णः सत्यदेवप्रसादतः ।
नावं संयोज्ययत्नेन स्वदेशगमनं कृतम् ॥19॥
साधुर्जामातरं प्राह पश्य रत्नपुरीं मम ।
दूतं च प्रेषयामास निजवित्तस्य रक्षकम् ॥20॥
ततोऽसौ नगरं गत्वा साधुभार्यां विलोक्य च ।
प्रोवाच वांछितं वाक्यं नत्वा बद्धांजलिस्तदा ॥21॥
निकटे नरस्यैव जामात्रा सहितो वणिक् ।
आगतो बन्धुवर्गेश्च वित्तैश्च बहुभिर्युतः ॥22॥
श्रुत्वा दूतमुखाद्वाक्यं महाहर्षवती सती ।
सत्यपूजां ततः कृत्वा प्रोवाच तनुजां प्रति ॥23॥
व्रजामि शीघ्रमागच्छ साधुसंदर्शनाय च ।
इति मातृवचः श्रुत्वा व्रतं कृत्वा समाप्य च ॥24॥
प्रसादं च परित्यज्य गता सापि पतिं प्रति ।
तेन रुष्टः सत्यदेवो भर्तारं तरणिं तथा ॥25॥
संहृत्य च धनैः सार्धं जले तस्यावमज्जयत् ।
ततः कलावती कन्या न विलोक्य निजं पतिम् ॥26॥
शोकेन महता तत्र रुदती चापतद् भुवि ।
दृष्ट्वा तथा निधां नावं कन्या च बहुदुःखिताम् ॥27॥
भीतेन मनसा साधुः किमाश्चर्य मिदं भवेत् ।
चिंत्यमानाश्चते सर्वेबभूवुस्तरणिवाहकाः ॥28॥
ततो लीलावती कन्यां दृष्ट्वा-सा विह्वलाभवत् ।
विललापातिदुःखेन भर्तारं चेदमब्रवीत ॥29॥
इदानीं नौकयासार्धं कथंसोऽभूदलक्षितः ।
न जाने कस्य देवस्य हेलया चैव सा हृता ॥30॥
सत्यदेवस्य माहात्म्यं ज्ञातु वा केन शक्यते ।
इत्युक्त्वा विललापैव ततश्च स्वजनैःसह ॥31॥
ततो लीलावती कन्यां क्रौडे कृत्वा रुरोदह ।
ततः कलावती कन्या नष्टे स्वामिनिदुःखिता ॥32॥
गृहीत्वापादुके तस्यानुगतुंचमनोदधे ।
कन्यायाश्चरितं दृष्ट्वा सभार्यः सज्जनोवणिक् ॥33॥
अतिशोकेनसंतप्तश्चिन्तयामास धर्मवित् ।
हृतं वा सत्यदेवेन भ्रांतोऽहं सत्यमायया ॥34॥
सत्यपूजां करिष्यामि यथाविभवविस्तरैः ।
इति सर्वान् समाहूय कथयित्वा मनोरथम् ॥35॥
नत्वा च दण्डवद् भूमौसत्यदेवं पुनःपुनः ।
ततस्तुष्टः सत्यदेवो दीनानां परिपालकः ॥36॥
जगाद वचनंचैनं कृपया भक्तवत्सलः ।
त्यक्त्वा प्रसादं ते कन्यापतिं द्रष्टुं समागता ॥37॥
अतोऽदृष्टोऽभवत्तस्याः कन्यकायाः पतिर्ध्रुवम् ।
गृहं गत्वा प्रसादं च भुक्त्वा साऽऽयति चेत्पुनः ॥38॥
लब्धभर्त्रीसुता साधो भविष्यति न संशयः ।
कन्यका तादृशं वाक्यं श्रुत्वा गगनमण्डलात ॥39॥
क्षिप्रं तदा गृहं गत्वा प्रसादं च बुभोज सा ।
सा पश्चात् पुनरागम्य ददर्श सुजनं पतिम् ॥40॥
ततःकलावती कन्या जगाद पितरं प्रति ।
इदानीं च गृहं याहि विलम्बं कुरुषेकथम् ॥41॥
तच्छुत्वा कन्यकावाक्यं संतुष्टोऽभूद्वणिक्सुतः ।
पूजनं सत्यदेवस्य कृत्वा विधिविधानतः ॥42॥
धनैर्बंधुगणैः सार्द्धं जगाम निजमन्दिरम् ।
पौर्णमास्यां च संक्रान्तौ कृतवान्सत्यपूजनम् ॥43॥
इहलोके सुखं भुक्त्वा चान्ते सत्यपरं ययौ ।
अवैष्णवानामप्राप्यं गुणत्रयविवर्जितम् ॥44।
इति श्री स्कन्द पुराणे रेवाखंडे सत्यनारायण व्रत कथायां चतुर्थोऽध्यायः समाप्तः ॥
अथ पञ्चमोऽध्यायः
मायया सत्यदेवस्य न श्रुतन्च तयोर्वचः।
ततस्तयोर्धनं राज्ञा गृहीतं चन्द्रकेतुना॥१॥
तच्छापाच्च तयोर्गेहे भार्या च दुःखिताऽभवत्।
चौरेणापहृतं सर्वं गृहे यच्च स्थितं धनम्॥२॥
आधिव्याधि समायुक्ता क्षुत्पिपासाऽतिपीडिता।
अन्न चिन्ता परा भूत्वा भ्रमते च गृहे-गृहे॥३॥
तथा कलावती कन्या भ्रमते प्रतिवासरम् ।
एकस्मिन् दिवसे रात्रौ क्षुधार्ता द्विजमन्दिरम्॥४॥
गत्वाऽपश्यद् व्रतं तत्र सत्यनारायणस्य च।
उपविश्य कथां श्रुत्वा वरं सम्प्रार्थ्य वाञ्छितम्॥५॥
प्रसादं भक्षणं कृत्वा ययौ रात्रौ गृहं प्रति।
ततौ लीलावती कन्यां भर्त्सयामास तां भृशम्॥६॥
पुत्रि रात्रौ स्थिता कुत्र किन्ते मनसि वर्त्तते।
द्विजालये व्रतं मातर्दृष्टं वाञ्छितसिद्धिदम्।
तत् श्रुत्वा कन्याकावाक्यं व्रतं कर्तुं समुद्यता॥७॥
ससुता सा वाणिग्भार्या सत्यनारायणस्य च।
व्रतं हि कुरुते साध्वी बन्दुभिः स्वजनैः सह॥८॥
भर्तृंजामातरौ क्षिप्रमागच्छेतां निजाश्रमम्।
इति देवं वरं याचे सत्यदेवं पुनः पुनः॥९॥
अपराधञ्च भर्तुर्मे जामातुः क्षन्तुमर्हसि।
व्रतेन तेनतुष्टोऽसौ सत्यनारायणः प्रभुः॥१०॥
दर्शयामास स्वप्नेहि चन्द्रकेतुं नृपोत्तमम्।
बन्धनान्मोचय प्रातर्वणिजौ नृपसतम्॥११॥
देयं धनञ्च तत्सर्वं विधियुक्तं हृतञ्च यत्।
नोचेत्त्वां नाशयिष्यामि सराज्यधनपुत्रकम्॥१२॥
एवमाभाष्य राजानं ध्यानगम्योऽभवत् प्रभुः।
ततः प्रभात समये राजा च स्वजनैः सह॥१३॥
उपविश्य सभामध्ये प्राह पौरजनान् प्रति।
बद्धौ महाजनौ शीघ्रं मोचयध्वं वणिक्सुतौ॥१४॥
इति राज्ञो वचः श्रुत्वा मोचयित्वा महाजनौ।
समानीय नृपस्याग्रे प्रोचुस्ते विनयान्विताः॥१५॥
आनीतौ द्वौ वणिक्पुत्रौ मुक्तौ निगड बंधनात्।
ततो महाजनौ नत्वा चन्द्रकेतुं नृपोत्तमम्॥१६॥
संस्मरंतौ पूर्व वृत्तान्तंविस्मयाद् भयिह्वलौ।
राजा वणिक्सुतौ वीक्ष्य प्रोवाच सादरं वचः॥१७॥
दैवात् प्राप्तं महद्दुःखमिदानीं नास्ति ते भयम्।
इदानीं कर्तुमुचितं क्षौरकर्मादिकं च यत्॥१८॥
ततो नृपाऽऽज्ञया सर्वं नित्यकर्म समाप्य च।
शुक्लाम्बरधरौ शीघ्रं सभामध्ये समागतौ॥१९॥
ततः नृपवरः श्रीमान् स्वर्णरत्नविभूषणैः।
पुरस्कृत्य वणिक्पुत्रौ वचसा प्रीणयन् भृशम्॥२०॥
पुरानीतञ्च यद्द्रव्यं द्विगुणीकृत्य दत्तवान्।
प्रोवाच ततो राजा गच्छ साधो निजाश्रमम्॥२१॥
राजानं प्रणिपत्याऽऽह गन्तव्यं त्वत्प्रसादतः॥२२॥
इति श्री स्कन्दपुराणे रेवाखण्डे श्रीसत्यनारायण व्रत कथायां पञ्चमोऽध्यायः॥
अथ षष्ठोऽध्यायः
सूत उवाच –
यात्रा कृत्वा ततः साधुर्मङ्गलाचारपूर्विकाम्।
ब्राह्मणाय धनं दत्त्वा सहर्षं नगरं ययौ॥१॥
कियद् दूरे गते साधौ सत्यनारायणः प्रभुः।
जिज्ञासां कृतवान् साधो किमस्ति तरणौ तव॥२॥
ततो महाजनो मत्तो हेलया च प्रहस्य च।
कथं पृच्छसि भो दण्डिन् मुद्रां किं लब्धुमिच्छसि॥३॥
लता पत्रादिकं चैव वर्तते तरणौ मम।
निष्ठुरं च बचः श्रुत्वा सत्यं भवतुत्वद्वचः॥४॥
एवमुक्त्वा गतः शीघ्रं दण्डी तस्य समीपतः।
गते दण्डिनि साधुश्च कृतनित्यक्रियस्तदा॥५॥
उत्थितां तरणीं दृष्ट्वा। विस्मयं परमं ययौ।
लतापत्रादिकं दृष्ट्वा मूर्च्छितोन्यपतद्भुवि॥६॥
लब्धसंज्ञो वणिक्पुत्रः ततश्चिन्तान्वितोऽभवत्।
शान्त्वयन् तं भृशं साधुः वचनञ्चेदमव्रवीत्॥७॥
किमर्थं कुरुषे शोकं शापो दत्तश्च दण्डिना।
शक्यते तेन सर्वं हि कर्तुं-हर्तुं न संशयः॥८॥
अतस्तच्छरणं याहि वाञ्छितार्थो भविष्यति।
जामातुश्च वचः श्रुत्वा तत्सकाशं गतस्तदा॥९॥
दृष्ट्वा तु दण्डिनं भक्त्या नत्वा प्रोवाच सादरम्।
मया दुरात्मना देव मुग्धेन तव मायया॥१०॥
यदुक्तं तद्वचो नाथ! दोषं मे क्षन्तुमर्हसि।
यतः परहिताः सर्वे क्षमासारा हि साधवः॥११॥
पुनः पुनस्ततो नत्वा रुरोद शोकविह्वलः।
तमुवाच ततो दण्डी विलपंतं विलोक्य च॥१२॥
मा रोदीः श्रृणु मे वाक्यं मम पूजा वहिर्मुखः।
मामवज्ञाय दुर्बुद्धे लब्धं दुःखं मुहुर्मुहुः॥१३॥
तच्छ्रुत्वा भगद्वाक्यं स्तुतिं कर्तुं समुद्यतः॥१४॥
साधुरुवाच –
त्वन्मायामोहिताः सर्वे ब्रह्माद्यास्त्रिदिवौकसः।
न जानन्ति गुणं रूपं तवाश्चर्यमिदं विभो॥१५॥
मूढोऽहं प्राक् कथं जाने मोहितस्तव मायया।
प्रसीद पूजयिष्यामि यथा विभव विस्तरैः॥१६॥
पुत्रं वित्तं च संवृत्तिं पाहि मां शरणागतम्॥१७॥
श्रुत्वा स्तुत्यादिकंवाक्यं परितुष्टो जनार्दनः।
वरञ्च वाञ्छितं दत्त्वा तत्रैवाऽन्तरधीयत॥१८॥
ततोऽसौ नावमारुह्य दृष्ट्वा रत्नादिपूरिताम्।
कृपया सत्यदेवस्य सफलं वाञ्छितं मम।
इत्युक्त्वा स्वजनैः सार्द्धं पूजां कृत्वा यथाविधि॥१९॥
हर्षेण महता साधुः प्रयाणञ्चाऽकरोत्तदा।
नावं संवाह्य वेगेन स्वदेशमगमत्तदा॥२०॥
ततो जामातरं प्राह पश्य वत्स पुरीं मम।
दूतञ्च प्रेषयामास निजवित्तस्य रक्षकम्॥२१॥
ततोऽसौ नगरं गत्वा साधोर्भार्यां विलोक्य च।
प्रोवाच वाञ्छितं वाक्यं नत्वा वद्धाञ्जलिस्तदा॥२२॥
तटे तु नगरस्यैवजामात्रा सहितो वणिक्।
आगतो बन्धुवर्गैश्च धनैर्बहुविधैस्तदा॥२३॥
श्रुत्वा दूतस्य तद्वाक्यं महाहर्ष युता सती।
सत्यपूजां ततः कृत्वा प्रोवाच तनुजां प्रति।
व्रजामि शीघ्रमाऽऽगच्छ साधु संदर्शनाय च॥२४॥
इति मातृवचः श्रुत्वा व्रतं कृत्वा समाप्य च।
प्रसादञ्च परित्यज्य गता सापि पतिं प्रति॥२५॥
तेन रुष्टः सत्यदेवो भर्त्तारं तरणिं तथा।
संहृत्य च धनैः सार्द्धं जले तस्मिन् न्यमज्जयत्॥२६॥
ततः कलावती कन्या नाऽवलोक्य निजंपतिम्।
शोकेन महता तत्र रुदन्तीचापतद्भुवि॥२७॥
दृष्ट्वा तथाविधां कन्यां न दृष्ट्वा तत्पतिं तरिम्।
भीतेन महता साधुः किमाश्चर्यमिदं त्विति।
विचिन्त्यमानास्ते सर्वे विस्माद्भयविह्वलाः॥२८॥
ततो लीलावती साध्वी दृष्ट्वा च विह्वला सती।
विललापातिदुःखेन भर्त्तारञ्चेदमब्रवीत्॥२९॥
इदानीं नौकया सार्द्धमदृश्योऽभूदलक्षितः।
न जाने केन देवेन हेलया चाऽपहारितः॥३०॥
सत्यदेवस्य माहात्म्यं किं वा ज्ञातुं न शक्यते।
इत्युक्त्वा विललापाऽथ तत्रत्यैः स्वजनैः सह।
ततो लीलावती कन्यां क्रोडे कृत्वा रुरोद च॥३१॥
ततः कलावती कन्या नष्टे स्वामिनि दुःखिता।
गृहीत्वा पादुकां तस्य अनुगन्तुं मनोदधे॥३२॥
कन्यायाश्चरितं दृष्ट्वा सभार्यः सज्जनो वणिक्।
अतिशोकेन संतप्तश्चिन्तयामास धर्मवित्॥३३॥
हृतो हि सत्यदेवेन जमाता सत्यमायया।
सत्यपूजां करिष्यामि यथाविभवविस्तरैः॥३४॥
इति सर्वान् समाहूय कथयँश्च मनोरथम्।
नत्वा च दण्डवद्भूमौ सत्यदेवं पुनः पुनः॥३५॥
ततस्तुष्टः सत्यदेवो गगनाद् वणिजं प्रति।
जगाद वचनञ्चेदं नैवेद्यञ्चाऽवमन्य च।
आगता स्वामिनं द्रष्टुमतोऽदृश्योऽभवत् पतिः॥३६॥
गृहं गत्वा प्रसादञ्च भुक्त्वा चायाति चेत् पुनः।
लब्धभर्त्री सुता साधो भविष्यति न संशयः॥३७॥
ततस्तु प्राणदं वाक्यं श्रुत्वा गगनमण्डलात्।
क्षिप्रं तदा गृहं गत्वा प्रसादं प्रतिगृह्य च।
अपश्यत् पुनरागत्य पतिं नाविजनैः सह॥३८॥
ततः कलावती तुष्टा जगाद पितरं प्रति।
एहि तातऽ गृहं यामो विलम्बं कुरुषे कथम्॥३९॥
तच्छ्रुत्वा कन्यकावाक्यं सन्तुष्टोऽभूद् वणिक्सुतः।
पूजनं सत्यदेवस्य कृत्वा बहुविधानतः।
धनैर्बन्धुजनैः सार्द्धं जगाम निजमन्दिरम्॥४०॥
मासि मासि च संक्रान्त्या पूजां कृत्वा यथाविधि।
इह लोके सुखं भुक्त्वा चाऽन्ते सत्यपुरं ययौ॥४१॥
अथ चान्यत् प्रवक्ष्यामि श्रृणुध्वं मुनिसत्तमाः॥४२॥
इति श्री स्कन्दपुराणे रेवाखण्डे श्री सत्यनारायण व्रत कथायां षष्ठोऽध्यायः॥
अथ सप्तमोऽध्यायः
आसीद् वंशध्वजो राजा प्रजापालनतत्परः।
प्रसादं सत्यदेवस्य त्यक्त्वा दुःखमवाप सः॥१॥
एकदा स वनं गत्वा हत्वा बहुविधान् मृगान्।
आगत्य वटमूले च दृष्ट्वा सत्यस्य पूजनम्॥२॥
गोपाः कुर्वन्ति सन्तुष्टाः नृत्यगीतपरायणाः।
राजा दृष्ट्वा तु दर्पेण नाऽऽगतो न ननाम सः।
ततो गोपगणाः सर्वे प्रसादं नृपसन्निधौ।
संस्थाप्य पुनरागत्य भुक्त्वा सर्वैर्यथेप्सितम्॥३॥
तत्प्रसादं परित्यज्य राजा दुःखमवाप्तवान्।
तस्य पुत्रशतं नष्टं धनधान्यादिकञ्च यत्॥४॥
सत्यदेवेन तत्सर्वं नाशितं मम निश्चितम्।
अस्तस्तत्रैव गच्छामि यत्र देवस्य पूजनम्।
मनसेति विनिश्चित्य ययौ गोपाल-सन्निधिम्।
ततोऽसौ सत्यदेवस्य पूजां गोपगणैः सह।
भक्ति श्रद्धान्वितो भूत्वा चकार विधिना नृपः॥५॥
तद्व्रतस्य प्रभावेण धन-पुत्रान्वितोऽभवत्।
इहलोके सुखं भुक्त्वा पश्चात् सत्यपुरं ययौ॥६॥
इति श्री स्कन्दपुराणेरेवाखण्डे श्री सत्यनारायण व्रत कथायां सप्तमोऽध्यायः॥
अथ विसर्जनम्
तत्र प्रथममार्तिक्यम् – कर्पूरदीपमादाय ॐ चन्द्रादित्यौच धरणी विद्यदग्निस्तथैव च। त्वमेव सर्वज्योतिंषि आर्तिक्यम्प्रतिगृह्यताम्। इदमार्तिक्यं साङ्गाय सपरिवाराय ॐ भगवते श्रीसत्यनारायणाय नमः।
ततः पुष्पाञ्जलिमादाय – ॐ मालतीमल्लिकापुष्पैर्नागचम्पकसंयुतैः पुष्पाञ्जलिं गृहाणेदं।
ततः प्रदक्षिणा – ॐ यानि कानि च पापानि ब्रह्मत्या समानि च। तानि तानि प्रणश्यन्ति प्रदक्षिण पदे पदे। इति वारचतुष्टयं प्रदक्षिणीकृत्य प्रार्थयेदनेन – ॐ रूपं देहि यशो देहि भाग्यं केशव देहिमे। धर्मान् देहि धनं देहि सर्वान् कामान् प्रदेहि मे। इति संभाष्य विसर्जयेत्॥
विसर्जन –
ॐ गणपत्यादिपञ्चदेवताः पूजितास्थ क्षमध्वम् स्वस्थानंगच्छत। ॐ भगवन् विष्णो पूजितोऽसि प्रसीद क्षमस्व स्वस्थानं गच्छ। ॐ लक्ष्मि पूजिताऽसि प्रसीद मयिरमस्व। ॐ सरस्वति पूजिताऽसि प्रसीद क्षमस्व स्वस्थानं गच्छ। ॐ आदिपुरुष पूजितोऽसि प्रसीद क्षमस्व स्वस्थानं गच्छ। ॐ अनादिपुरुष पूजितोऽसि प्रसीद क्षमस्व स्वस्थानं गच्छ। ॐ इन्द्रादिदशदिक्पालाः पूजिताःस्थ क्षमध्वं स्वस्थानं गच्छत। ॐ नवग्रहाः पूजिताःस्थ क्षमध्वं स्वस्थानं गच्छत। ॐ ससीतरामलक्ष्मणौ पूजितौस्थः क्षमेयाथाम् स्वस्थानं गच्छतम्। ॐ भगवन् श्रीसत्यनारायण पूजितोऽसि प्रसीद क्षमस्व स्वस्थानं गच्छ। ॐ गौरीशंकरौ पूजितौस्थः क्षमेयाथाम् स्वस्थानं गच्छतम्। ॐ ब्रह्मन् पूजितोऽसि प्रसीद क्षमस्व स्वस्थानं गच्छ।
ततो दक्षिणा – कुशत्रय तिलजलान्यादाय – ॐ अस्यां रात्रौ कृतैतत सांगसायुध सवाहन-सपरिवार भगवन् श्रीसत्यनारायण पूजन तत्कथा श्रवण कर्मप्रतिष्ठार्थमेतावद्द्रव्यमूल्यक हिरण्यमग्निदैवतं यथानामगोत्राय ब्राह्मणाय दक्षिणा महन्ददे। ॐ स्वस्तीति प्रतिवचनम्। ततः पादोदकं पीत्वा यथाशक्ति ब्राह्मणान् भोजयित्वा स्वयमपि भुञ्जीत॥
हरिः हरः!!